Garland of Names · 201 verses, 965 names

The Verses

The garland in five chapters, following the arc of Kṛṣṇa's life. Choose a chapter, or search any name, meaning, or story across them all.

The cosmic prologue through the Gokula infancy

I Cosmic Prologue

Verses 1–10
Verse 1 कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः । क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः॥ kṛṣṇaḥ, śrīvallabhaḥ … 9 names Verse 2 भक्तिगम्यस् त्रयीमूर्तिर् भारार्तवसुधास्तुतः । देवदेवो दयासिन्धुर् देवदेवशिखामणिः॥ bhaktigamyaḥ, trayīmūrtiḥ … 6 names Verse 3 सुखभावस् सुखाधारो मुकुन्दो मुदिताशयः । अविक्रियः क्रियामूर्तिर् अध्यात्मस्वस्वरूपवान्॥ sukhabhāvaḥ, sukhādhāraḥ … 7 names Verse 4 शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः । अन्तर्यामी कलारूपः कालावयवसाक्षिकः॥ śiṣṭābhilakṣyaḥ, bhūtātmā … 6 names Verse 5 वसुधायासहरणो नारदप्रेरणोन्मुखः । प्रभूष्णुर् नारदोद्गीतो लोकरक्षापरायणः॥ vasudhāyāsaharaṇaḥ, nāradapreraṇonmukhaḥ … 5 names Verse 6 रौहिणेयकृतानन्दो योगज्ञाननियोजकः । महागुहान्तर्निक्षिप्तः पुराणवपुर् आत्मवान्॥ rauhiṇeyakṛtānandaḥ, yogajñānaniyojakaḥ … 5 names Verse 7 शूरवंशैकधीश् शौरिः कंसशङ्काविषादकृत् । वसुदेवोल्लसच्छक्तिर् देवक्यष्टमगर्भगः॥ śūravaṃśaikadhīḥ, śauriḥ … 5 names Verse 8 वसुदेवसुतः श्रीमान् देवकीनन्दनो हरिः । आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश् चतुर्भुजः॥ vasudevasutaḥ, śrīmān … 7 names Verse 9 स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः । प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः॥ svabhāvotkṛṣṭasadbhāvaḥ, kṛṣṇāṣṭamyantasambhavaḥ … 4 names Verse 10 शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः । किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः॥ śaṅkhacakragadāpadmapāṇiḥ, padmanibhekṣaṇaḥ … 5 names

II Birth in the Prison

Verses 11–21
Verse 11 पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः । सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः॥ pītavāsāḥ, ghanaśyāmaḥ … 5 names Verse 12 कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः । वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः॥ kārāgārāndhakāraghnaḥ, pitṛprāgjanmasūcakaḥ … 5 names Verse 13 निरवद्यः क्रियामूर्तिर् न्यायवाक्यनियोजकः । अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः॥ niravadyaḥ, kriyāmūrtiḥ … 6 names Verse 14 महर्षिमानसोल्लासो महीमङ्गलदायकः । सन्तोषितसुरव्रातः साधुचित्तप्रसादकः॥ maharṣimānasollāsaḥ, mahīmaṅgaladāyakaḥ … 4 names Verse 15 जनकोपायनिर्देष्टा देवकीनयनोत्सवः । पितृपाणिपरिष्कारो मोहितागाररक्षकः॥ janakopāyanirdeṣṭā, devakīnayanotsavaḥ … 4 names Verse 16 स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः । शेषोरगफणाच्छत्रश् शेषोक्ताख्यासहस्रकः॥ svaśaktyuddhāṭitāśeṣakapāṭaḥ, pitṛvāhakaḥ … 4 names Verse 17 यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः । कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः॥ yamunāpūravidhvaṃsī, svabhāsodbhāsitavrajaḥ … 4 names Verse 18 दुर्गानिवेदितोद्भावो यशोदातल्पशायकः । नन्दगोपोत्सवस्फूर्तिर् व्रजानन्दकरोदयः॥ durgāniveditodbhāvaḥ, yaśodātalpaśāyakaḥ … 4 names Verse 19 सुजातजातकर्म श्रीर् गोपीभद्रोक्तिनिर्वृतः । अलीकनिद्रोपगमः पूतनास्तनपीडनः॥ sujātajātakarmaśrīḥ, gopībhadroktinirvṛtaḥ … 4 names Verse 20 स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः । विन्यस्तरक्षागोधूलिर् यशोदाकरलालितः॥ stanyāttapūtanāprāṇaḥ, pūtanākrośakārakaḥ … 4 names Verse 21 नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः । बालः पर्यङ्कनिद्रालुर् मुखार्पितपदाङ्गुलिः॥ nandāghrātaśiromadhyaḥ, pūtanāsugatipradaḥ … 5 names

III Gokula · Pūtanā · Tṛṇāvarta

Verses 22–30
Verse 22 अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः । लीलाक्षस् तरलालोकश् शकटासुरभञ्जनः॥ añjanasnigdhanayanaḥ, paryāyāṅkuritasmitaḥ … 5 names Verse 23 द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः । यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः॥ dvijoditasvastyayanaḥ, mantrapūtajalāplutaḥ … 4 names Verse 24 यशोदास्तन्यमुदितस् तृणावर्तादिदुस्सहः । तृणावर्तासुरध्वंसी मातृविस्मयकारकः॥ yaśodāstanyamuditaḥ, tṛṇāvartādidussahaḥ … 4 names Verse 25 प्रशस्तनामकरणो जानुचङ्क्रमणोत्सुकः । व्यालम्बिचूलिकारत्नो घोषगोपप्रहर्षणः॥ praśastanāmakaraṇaḥ, jānucaṅkramaṇotsukaḥ … 4 names Verse 26 स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः । पङ्कानुलेपरुचिरो मांसलोरुकटीतटः॥ svamukhapratibimbārthī, grīvāvyāghranakhojjvalaḥ … 4 names Verse 27 घृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् । अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः॥ ghṛṣṭajānukaradvandvaḥ, pratibimbānukārakṛt … 4 names Verse 28 धात्रीकरसमालम्बी प्रस्खलच्चित्रचङ्क्रमः । अनुरूपवयस्याढ्यश् चारुकौमारचापलः॥ dhātrīkarasamālambī, praskhalaccitracaṅkramaḥ … 4 names Verse 29 वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः । विस्मारितान्यव्यापारो गोपगोपीमुदावहः॥ vatsapucchasamākṛṣṭaḥ, vatsapucchavikarṣaṇaḥ … 4 names Verse 30 अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः । नवनीतमहाचोरो दारकाहारदायकः॥ akālavatsanirmoktā, vrajavyākrośasusmitaḥ … 4 names

IV Yamalārjuna · Forest Demons

Verses 31–40
Verse 31 पीठोलूखलसोपानः क्षीरभाण्डविभेदनः । शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत्॥ pīṭholūkhalasopānaḥ, kṣīrabhāṇḍavibhedanaḥ … 4 names Verse 32 भूषारत्नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः । परागधूसराकारो मृद्भक्षणकृतेक्षणः॥ bhūṣāratnaprakāśāḍhyaḥ, gopyupālambhabhartsitaḥ … 4 names Verse 33 बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः । कृतसन्त्रासलोलाक्षो जननीप्रत्ययावहः॥ bāloktamṛtkathārambhaḥ, mitrāntargūḍhavigrahaḥ … 4 names Verse 34 मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः । यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः॥ mātṛdṛśyāttavadanaḥ, vaktralakṣyacarācaraḥ … 4 names Verse 35 सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः । नवनीतार्थनाप्रह्वो नवनीतमहाशनः॥ savitrīsnehasaṃśliṣṭaḥ, savitrīstanalolupaḥ … 4 names Verse 36 मृषाकोपप्रकम्पोष्ठो गोष्ठाङ्गणविलोकनः । दधिमन्थघटीभेत्ता किङ्किणीक्वाणसूचितः॥ mṛṣākopaprakampoṣṭhaḥ, goṣṭhāṅgaṇavilokanaḥ … 4 names Verse 37 हैयङ्गवीनरसिको मृषाश्रुश् चौर्यशङ्कितः । जननीश्रमविज्ञाता दामबन्धनियन्त्रितः॥ haiyaṅgavīnarasikaḥ, mṛṣāśruḥ … 5 names Verse 38 दामाकल्पश् चलापाङ्गो गाढोलूखलबन्धनः । आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित्॥ dāmākalpaḥ, calāpāṅgaḥ … 6 names Verse 39 नारदोक्तिपरामर्शी यमलार्जुनभञ्जनः । धनदात्मजसङ्घुष्टो नन्दमोचितबन्धनः॥ nāradoktiparāmarśī, yamalārjunabhañjanaḥ … 4 names Verse 40 बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः । आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः॥ bālakodgītanirataḥ, bāhukṣepoditapriyaḥ … 5 names

No verses in this chapter match your search.